All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Bala Tripura Sundari Stotra

॥ श्री बाला त्रिपुरसुन्दरी स्तोत्र ॥
॥ Shri Bala Tripura Sundari Stotra ॥

॥ ॐ गण गणपतये नमः ॥

श्री भैरव उवाच
अधुना देवि ! बालायाः स्तोत्रं वक्ष्यामि पार्वति ! ।
पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥

विनियोग
ॐ अस्य श्रीबालात्रिपुरसुन्दरीस्तोत्रमन्त्रस्य
श्री दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः,
श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः,
क्लीं किलकं, श्रीबालाप्रीतये पाठे विनियोगः ।

ऋष्यादि न्यास
ॐ श्री दक्षिणामूर्तिऋषये नमः – शिरसि ।
ॐ श्री पङ्क्तिश्छन्दसे नमः – मुखे ।
ॐ श्रीबालात्रिपुरसुन्दरी देवतायै नमः – हृदि ।
ॐ ऐं बीजाय नमः – नाभौ ।
ॐ सौः शक्तये नमः – गुह्ये ।
ॐ क्लीं कीलकाय नमः – पादयोः ।
ॐ श्रीबालाप्रीतये पाठे विनियोगाय नमः – सर्वाङ्गे ।

करन्यासः
ॐ ऐं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ सौः मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ सौः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यास
ॐ ऐं हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ सौः शिखायै वौषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषतट् ।
ॐ सौः अस्त्राय फट् ।

ध्यान
अरुणकिरणजालै रञ्जिताशावकाशा ।
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था ।
निवसतु हृदि बाला नित्यकल्याणरूपा ॥

मानस पूजन
ॐ लं पृथिवीतत्त्वात्मकं गन्धं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीबालात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीबालात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीबालात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।

मूल श्रीबालास्तोत्रम्
वाणीं जपेद् यस्त्रिपुरे ! भवान्या बीजं निशीथे जडभावलीनः ।
भवेत स गीर्वाणगुरोर्गरीयान् गिरीशपत्नि प्रभुतादि तस्य ॥ १॥ प्रभयार्दि तस्य
कामेश्वरि ! त्र्यक्षरी कामराजं जपेद् दिनान्ते तव मन्त्रराजम् । जपेद् रतान्ते
रम्भाऽपि जृम्भारिसभां विहाय भूमौ भजेत् तं कुलदीक्षितं च ॥ २॥

तार्तीयकं बीजमिदं जपेद् यस्त्रैलोक्यमातस्त्रिपुरे ! पुरस्तात् ।
विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ३॥
धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे ।
विन्दुपीठेऽर्चयेद् बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ४॥

फलश्रुति
इति मन्त्रमयं स्तवं पठेद् यस्त्रिपुराया निशि वा निशावसाने ।
स भवेद् भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ १॥
इतीदं देवि ! बालाया स्तोत्रं मन्त्रमयं परम् ।
अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ २॥

॥ श्री बाला त्रिपुरसुन्दरी स्तोत्रम् सम्पूर्णम ॥

आज का पंचांग ( Sun 02 Aug 2026 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • चतुर्थी, 01 Aug 2026 23:07:49 से 02 Aug 2026 23:15:49 तक
  • पंचमी, 02 Aug 2026 23:15:50 से 03 Aug 2026 22:54:47 तक

वार

रविवार

नक्षत्र

  • पूर्वभाद्रपदा, 01 Aug 2026 20:45:19 से 02 Aug 2026 21:37:03 तक
  • उत्तरभाद्रपदा, 02 Aug 2026 21:37:04 से 03 Aug 2026 22:00:21 तक

सूर्यौदय

02 Aug 2026 05:51:12

सूर्यास्त

02 Aug 2026 19:22:02

चंद्रोदय

02 Aug 2026 21:29:39

चंद्रस्थ

03 Aug 2026 10:05:15

योग

अतिगण्ड

01 Aug 2026 23:22:33 से 02 Aug 2026 22:29:24 तक

सुकर्मा

02 Aug 2026 22:29:25 से 03 Aug 2026 21:13:12 तक

शुभ काल

अभिजीत मुहूर्त

  • 02 Aug 2026 12:09:33 से 02 Aug 2026 13:03:36 तक

अमृत काल

  • 02 Aug 2026 13:19:19 से 02 Aug 2026 14:58:45 तक

ब्रह्म मुहूर्त

  • 02 Aug 2026 04:15:02 से 02 Aug 2026 05:03:03 तक

अशुभ काल

राहू

  • 02 Aug 2026 17:40:39 से 02 Aug 2026 19:22:00 तक

यम गण्ड

  • 02 Aug 2026 12:36:36 से 02 Aug 2026 14:17:57 तक

कुलिक

  • 02 Aug 2026 15:59:18 से 02 Aug 2026 17:40:39 तक

दुर्मुहूर्त

  • 02 Aug 2026 17:33:51 से 02 Aug 2026 18:27:54 तक