All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Chinnmastra kavch

॥ श्री छिन्नमस्ता कवचम् ॥
॥ Shri Chinnmastra kavch ॥

॥ ॐ गण गणपतये नमः ॥

॥ देव्युवाच ॥
कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः ।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् ।
त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ २॥

॥ भैरव उवाच ॥
श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते ।
त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ ३
सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् ।
धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ ४॥

ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः ।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ ५॥
न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ।
देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ ६॥

देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः ।
ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ ७॥
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः ।
हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ ८॥

ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा ।
श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ ९॥
सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु ।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ १०॥

घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी ।
श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ ११॥
हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी ।
स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ १२॥

वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका ।
मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ १३॥
वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु ।
रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ १४॥

कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।
रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ १५॥
मायया पुटिता पातु नाभिदेशे दिगम्बरा ।
कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ १६॥

वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका ।
ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ १७॥
हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा ।
छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ १८॥

ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् ।
सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ १९॥
प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु ।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ २०॥

नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु ।
इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ २१॥
संहारिणी सदा पातु शिवकोणे सकर्त्रिका ।
इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ २२॥

क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके ।
ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ २३॥
क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु ।
ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ २४॥

महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु ।
तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ २५॥
खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु ।
ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती ।
तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ २६॥

इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् ।
यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ २७॥
सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् ।
यस्याज्ञया मधुमती याति सा साधकालयम् ॥ २८॥

भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः ।
आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ २९॥
एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् ।
देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ ३०॥

संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ ३१॥
धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ ३२॥

तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ ३३॥
इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् ।
सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ३४

॥ इति श्री छिन्नमस्ता कवचं सम्पूर्णम् ॥

आज का पंचांग ( Fri 09 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • द्वादशी, 08 May 2025 12:29:49 से 09 May 2025 14:56:39 तक
  • त्रयोदशी, 09 May 2025 14:56:40 से 10 May 2025 17:30:26 तक

वार

शुक्रवार

नक्षत्र

  • हस्त, 08 May 2025 21:06:33 से 10 May 2025 00:09:08 तक
  • चित्रा, 10 May 2025 00:09:09 से 11 May 2025 03:15:20 तक

सूर्यौदय

09 May 2025 05:42:32

सूर्यास्त

09 May 2025 19:11:47

चंद्रोदय

09 May 2025 16:25:48

चंद्रस्थ

10 May 2025 04:03:30

योग

वज्र

09 May 2025 01:56:42 से 10 May 2025 02:57:42 तक

सिद्धि

10 May 2025 02:57:43 से 11 May 2025 04:00:52 तक

शुभ काल

अभिजीत मुहूर्त

  • 09 May 2025 12:00:11 से 09 May 2025 12:54:08 तक

अमृत काल

  • 09 May 2025 17:34:33 से 09 May 2025 19:22:43 तक

ब्रह्म मुहूर्त

  • 09 May 2025 04:06:22 से 09 May 2025 04:54:20 तक

अशुभ काल

राहू

  • 09 May 2025 10:45:59 से 09 May 2025 12:27:08 तक

यम गण्ड

  • 09 May 2025 15:49:26 से 09 May 2025 17:30:35 तक

कुलिक

  • 09 May 2025 07:23:41 से 09 May 2025 09:04:50 तक

दुर्मुहूर्त

  • 09 May 2025 08:24:23 से 09 May 2025 09:18:20 तक
  • 09 May 2025 12:54:08 से 09 May 2025 13:48:05 तक

वर्ज्यम्

  • 09 May 2025 06:34:33 से 09 May 2025 08:22:33 तक