All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Narsingh Kavach

॥ श्री नृसिंहकवचं ॥
॥ Shri Narsingh Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ नारद उवाच ॥
इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो
यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥

॥ ब्रह्मोवाच ॥
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥
यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥

लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ ४॥
ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः ।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥

क्ष्रौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः ।
उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥

द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८॥
नरसिंहाय च ज्वालामालिने पातु मस्तकम् ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥

सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च ।
सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥
रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम ।
तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ ११॥

क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः ।
नरायणाऽप्रसवम् च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२॥
षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥

क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥
क्ष्रौं नरसिंहाय क्ष्रौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥

इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥
गुरुपूजा विधायाथ गृहणीयात् कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥

शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः ।
हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥
ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः ।
स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥

पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् ।
अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥

योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।
विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२॥
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥

यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥

॥ इति श्री नृसिंह कवचं सम्पूर्णम् ॥

आज का पंचांग ( Wed 04 Feb 2026 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • तृतीया, 04 Feb 2026 00:41:09 से 05 Feb 2026 00:10:02 तक
  • चतुर्थी, 05 Feb 2026 00:10:03 से 06 Feb 2026 00:22:43 तक

वार

बुधवार

नक्षत्र

  • पूर्व फाल्गुनी, 03 Feb 2026 22:10:41 से 04 Feb 2026 22:12:45 तक
  • उत्तर फाल्गुनी, 04 Feb 2026 22:12:46 से 05 Feb 2026 22:57:12 तक

सूर्यौदय

04 Feb 2026 07:25:47

सूर्यास्त

04 Feb 2026 18:03:19

चंद्रोदय

04 Feb 2026 20:46:19

चंद्रस्थ

05 Feb 2026 09:14:18

योग

अतिगण्ड

04 Feb 2026 02:38:49 से 05 Feb 2026 01:04:19 तक

सुकर्मा

05 Feb 2026 01:04:20 से 06 Feb 2026 00:03:53 तक

शुभ काल

अमृत काल

  • 04 Feb 2026 15:59:41 से 04 Feb 2026 17:35:49 तक

ब्रह्म मुहूर्त

  • 04 Feb 2026 05:49:32 से 04 Feb 2026 06:37:30 तक

अशुभ काल

राहू

  • 04 Feb 2026 12:44:31 से 04 Feb 2026 14:04:12 तक

यम गण्ड

  • 04 Feb 2026 08:45:28 से 04 Feb 2026 10:05:09 तक

कुलिक

  • 04 Feb 2026 11:24:50 से 04 Feb 2026 12:44:31 तक

दुर्मुहूर्त

  • 04 Feb 2026 12:23:17 से 04 Feb 2026 13:05:47 तक

वर्ज्यम्

  • 04 Feb 2026 06:11:41 से 04 Feb 2026 07:47:41 तक
  • 05 Feb 2026 05:37:46 से 05 Feb 2026 07:16:46 तक