All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Sita Kavach

॥ श्री सीताकवचम् ॥
॥ Shri Sita Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ अगस्तिरुवाच ॥
सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु ।
आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥ १॥

या सीतावनि संभवाथमिथिलापालेन संवर्धितापद्माक्षनृपतेः
सुता नलगता या मातुलिङ्गोत्भवा।
या रत्ने लयमागता जलनिधौ या वेद वारं गतालङ्कां
सा मृगलोचना शशिमुखी मांपातु रामप्रिया ॥ २॥

॥ अथ न्यासः ॥
अस्य श्री सीताकवच मन्त्रस्य अगस्ति ऋषिः ।
श्री सीता देवता । अनुष्टुप् छन्दः । रमेति बीजम् ।
जनकजेति शक्तिः ऽवनिजेति कीलकम् ।
पद्माक्ष सुतेत्यस्त्रम् । मातुलिङ्गीति कवचम् ।
मूलकासुर घातिनीति मन्त्रः ।
श्रीसीतारामचन्द्र प्रीत्यर्थं सकल
कामना सिद्ध्यर्थं जपे विनियोगः ॥

॥ अथ अङ्गुळी न्यासः ॥
ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं रमायै तर्जनीभ्यां नमः ।
ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः ।
ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः मातुलिङ्ग्यै करतल करपृष्ठाभ्यां नमः ॥

॥ हृदयादिन्यासः ॥
ॐ ह्रां सीतायै हृदयाय नमः ।
ॐ ह्रीं रमायै शिरसे स्वाहा ।
ॐ ह्रूं जनकजायै शिकायै वषट् ।
ॐ ह्रैं अवनिजायै कवचाय हुम् ।
ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥
सीतां कमलपत्राक्षीं विद्युत्पुञ्च समप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौसेय वासिनीम् ॥ १॥
सिंहासने रामचन्द्र वामभाग स्थितां वराम् ।
नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ २॥

चूडाकङ्कण केयूर रशना नूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३॥
मयूरा भरणेनापि घ्राणेति शोभितांशुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४॥

बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् ।
स्मिताननां गौरवर्णां मन्दार कुसुमं करे ॥ ५॥
बिभ्रन्ती मपरे हस्ते मातुलिङ्ग मनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्र वाहन लोचनाम् ॥ ६॥

कलानाथ समानास्यां कलकण्ठ मनोरमाम् ।
मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुंभ पयोधरां ॥ ८॥

सीतायाः कवचं दिव्यं पठनीयं सुभावहं ॥ ९॥

ॐ । श्री सीता पूर्वतः पातु दक्षिणेवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ १॥
अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु ।
मध्येवनिसुता पातु सर्वतः पातु मां रमा ॥ २॥

स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्मावतु भृवोर्मध्ये मृगाक्षी नयनेवतु ॥ ३॥
कपोले कर्णमूले च पातु श्रीराम वल्लभा ।
नासाग्रं सात्विकी पातु पातु वक्त्रं तु राजसी ॥ ४॥

तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ ५॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कण मण्डिता ॥ ६॥

नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ ७॥
पृष्ठदेशे वह्निगुप्ता वतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षस मोहिनी ॥ ८॥

गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रंभोरूः जानुनी प्रिय भाषिणी ॥ ९॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १०॥

पादाङ्गुळीः सदा पातु मम नूपुर निस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ ११॥
रात्रौ पातु कालरूपा दिने दानैक तत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ १२॥

एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ १३॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ १४॥

स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्य माप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ १५॥
अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा ।
फलपुष्पादि कादीनि यानि यानि पृथक् पृथक् ॥ १६॥

सीतायाः कवचं चेदं पुण्यं पातक नाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ १७॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ १८॥

तस्मात् सदा नरैर् जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ १९॥
ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ २०॥

॥ इति श्री सीता कवचं सम्पूर्णम् ॥

आज का पंचांग ( Fri 08 May 2026 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • षष्ठी, 07 May 2026 10:14:29 से 08 May 2026 12:22:12 तक
  • सप्तमी, 08 May 2026 12:22:13 से 09 May 2026 14:03:20 तक

वार

शुक्रवार

नक्षत्र

  • उत्तराषाढ़ा, 07 May 2026 18:45:48 से 08 May 2026 21:19:57 तक
  • श्रवण, 08 May 2026 21:19:58 से 09 May 2026 23:24:46 तक

सूर्यौदय

08 May 2026 05:43:30

सूर्यास्त

08 May 2026 19:10:55

चंद्रोदय

08 May 2026 00:18:49

चंद्रस्थ

09 May 2026 11:29:55

योग

शुभ

08 May 2026 01:59:08 से 09 May 2026 02:29:49 तक

शुक्ल

09 May 2026 02:29:50 से 10 May 2026 02:35:28 तक

शुभ काल

अभिजीत मुहूर्त

  • 08 May 2026 12:00:13 से 08 May 2026 12:54:02 तक

अमृत काल

  • 08 May 2026 14:13:48 से 08 May 2026 16:00:04 तक

ब्रह्म मुहूर्त

  • 08 May 2026 04:07:23 से 08 May 2026 04:55:21 तक

अशुभ काल

राहू

  • 08 May 2026 10:46:15 से 08 May 2026 12:27:10 तक

यम गण्ड

  • 08 May 2026 15:49:00 से 08 May 2026 17:29:55 तक

कुलिक

  • 08 May 2026 07:24:25 से 08 May 2026 09:05:20 तक

दुर्मुहूर्त

  • 08 May 2026 08:24:57 से 08 May 2026 09:18:46 तक
  • 08 May 2026 12:54:02 से 08 May 2026 13:47:51 तक

वर्ज्यम्

  • 09 May 2026 01:40:58 से 09 May 2026 03:24:58 तक